|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.75. अध्यायः 075
Mahabharata - Adi Parva - Chapter Topics
मृगयार्थं गतस्य ययातेः पुनर्देवयानीसमागमः॥ 1 ॥
शुक्राज्ञया तयोर्विवाहः॥ 2 ॥
देवयानीशर्मिष्ठायां सह ययातेः स्वपुरप्रवेशः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-75-0x(403)(3400)
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी॥ 1-75-1(3401)
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा।
तमेव देशं संप्राप्ता यथाकामं चचार सा॥ 1-75-2(3402)
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्।
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं॥ 1-75-3(3403)
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च।
पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया॥ 1-75-4(3404)
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः।
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः॥ 1-75-5(3405)
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः।
आसनप्रवरे दिव्ये सर्वरत्नविभूषिते।
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्॥ 1-75-6(3406)
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम्।
`आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम्॥ 1-75-7(3407)
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम्।
ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम्॥ 1-75-8(3408)
गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत।
दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः॥' 1-75-9(3409)
ययातिरुवाच। 1-75-10x(404)
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे। 1-75-10(3410)
देवयान्युवाच। 1-75-11x(405)
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्॥ 1-75-11(3411)
इयं च मे सखी दासी यत्राहं तत्र गामिनी।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः॥ 1-75-12(3412)
ययातिरुवाच। 1-75-13x(406)
कथं तु ते सखी दासी कन्येयं वरवर्णिनी।
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे॥ 1-75-13(3413)
`नैव देवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले॥ 1-75-14(3414)
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना।
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता॥ 1-75-15(3415)
दैवेनोपहता सुभ्रूरुताहो तपसापि वा।
अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति॥ 1-75-16(3416)
अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत्।
पुरा दुश्चरितेनेयं तव दासी भवत्यहो॥' 1-75-17(3417)
देवयान्युवाच। 1-75-18x(407)
सर्व एव नरश्रेष्ठ विधानमनुवर्तते।
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः॥ 1-75-18(3418)
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे॥ 1-75-19(3419)
ययातिरुवाच। 1-75-20x(408)
ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः।
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः॥ 1-75-20(3420)
देवयान्युवाच। 1-75-21x(409)
केनास्यर्थेन नृपते इमं देशमुपागतः।
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया॥ 1-75-21(3421)
ययातिरुवाच। 1-75-22x(410)
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः।
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि॥ 1-75-22(3422)
देवयान्युवाच। 1-75-23x(411)
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह।
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव॥ 1-75-23(3423)
`वैशम्पायन उवाच। 1-75-24x(412)
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा।
शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्'॥ 1-75-24(3424)
ययातिरुवाच। 1-75-25x(413)
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि।
अविवाह्या हि राजानो देवयानि पितुस्तव॥ 1-75-25(3425)
`परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा।
अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः॥ 1-75-26(3426)
देवयान्युवाच। 1-75-27x(414)
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम्।
`अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते।'
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम्॥ 1-75-27(3427)
ययातिरुवाच। 1-75-28x(415)
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने।
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः॥ 1-75-28(3428)
देवयान्युवाच। 1-75-29x(416)
पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा।
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः॥ 1-75-29(3429)
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया॥ 1-75-30(3430)
ययातिरुवाच। 1-75-31x(417)
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता॥ 1-75-31(3431)
देवयान्युवाच। 1-75-32x(418)
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ॥ 1-75-32(3432)
ययातिरुवाच। 1-75-33x(419)
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः॥ 1-75-33(3433)
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम।
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्॥ 1-75-34(3434)
देवयान्युवाच। 1-75-35x(420)
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः॥ 1-75-35(3435)
`तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः।
गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय।
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्'॥ 1-75-36(3436)
वैशम्पायन उवाच। 1-75-37x(421)
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः।
सर्वं निवेदयामास धात्री तस्मै यथातथम्॥ 1-75-37(3437)
श्रुत्वैव च स राजानं दर्शयामास भार्गवः।
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः॥ 1-75-38(3438)
देवयान्युवाच। 1-75-39x(422)
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्।
नान्यपूर्वगृहीतं मे तेनाहमभया कृता।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे॥ 1-75-39(3439)
शुक्र उवाच। 1-75-40x(423)
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः।
कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति॥ 1-75-40(3440)
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया।
स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात्।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज॥ 1-75-41(3441)
ययातिरुवाच। 1-75-42x(424)
अधर्मो न स्पृशेदेष महान्मामिह भार्गव।
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्॥ 1-75-42(3442)
शुक्र उवाच। 1-75-43x(425)
अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम्।
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते॥ 1-75-43(3443)
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्।
अनया सह संप्रीतिमतुलां समवाप्नुहि॥ 1-75-44(3444)
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी।
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः॥ 1-75-45(3445)
रहस्येनां समाहूय न वदेर्न च संस्पृशेः।
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि॥ 1-75-46(3446)
वैशम्पायन उवाच। 1-75-47x(426)
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्।
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्॥ 1-75-47(3447)
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम्।
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह॥ 1-75-48(3448)
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः।
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना॥ ॥ 1-75-49(3449)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चसप्ततितमोऽध्यायः॥ 75 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-75-3 मधुमाधवीं मधुवृक्षमदिराम्॥ 1-75-18 विधानं दैवं अनुवर्तते अनुसृत्यास्ति॥ 1-75-21 अर्थेन कार्येण। वारिजं मीनं पद्मादि वा॥ 1-75-22 अनुयुक्तोस्मि पलायिते मृगे श्रान्तोस्मि॥ 1-75-27 संसृष्टं उच्छिन्नस्य क्षत्रस्य ब्राह्मणवीर्यादेव पुनरुद्भवाद्ब्रह्मणा क्षत्रं संसृष्टम्। क्षत्रियकन्यासु लोपामुद्रादिषु ब्राह्मणानामुत्पत्तिदर्शनात्क्षत्रेण ब्रह्म संहितं मिश्रम्॥ 1-75-28 एकस्येश्वरस्य देहो देहावयवाः मुखबाहूरुपादास्तदुद्भवाः॥ 1-75-35 मा मां भयं क्षत्रियेण ब्राह्मणीपरिणयनदोषजम्॥ 1-75-39 दुर्गमे संकटे॥ 1-75-43 ईप्सितं वरं च वृणीध्वेत्युक्तोऽपीदानीं न वृतवान् पश्चात्त्वन्यत्र जरासंक्रमणसामर्थ्यरूपः शुक्रेणैव स्वप्रतिज्ञासिद्धये दत्त इति ध्येयम्॥ पञ्चसप्ततितमोऽध्यायः॥ 75 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|